|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.256. अध्यायः 256
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति ज्ञानोपायादिप्रतिपादकव्यासवाक्यानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
शुक उवाच। 12-256-0x(6261)(75635)
यस्माद्धर्मात्परो धर्मो विद्यदे नेह कश्चन।
यो वि----- न्प्रब्रवीतु मे॥ 12-256-1(75636)
व्यास उवाच। 12-256-2x(6262)
धर्मं ति संप्रवक्ष्यामि पुराणमृषिसंस्तुतम्।
विशिष्टं सर्वधर्मेभ्यस्तमिहैकमनाः शृणु॥ 12-256-2(75637)
इन्द्रिया-----प्रमाथीनि बुद्ध्या संयम्य यत्नतः।
सर्वतो
------------
मनसश्चेन्द्रियाणा चाप्यकाग्र्य परमं तप।
तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्य॥ 12-256-4(75639)(75638)
तानि सर्वाणि संधाय मनःषष्ठानि मेधया।
आत्मतृप्त इवासीत बहुचिन्त्यमचिन्तयन्॥ 12-256-5(75640)
गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि।
तदा त्वमात्मनाऽऽत्मानं परं द्रक्ष्यसि शाश्वतम्॥ 12-256-6(75641)
सर्वात्मानं महात्मानं विधूममिव पावकम्।
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः॥ 12-256-7(75642)
यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः।
आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम्॥ 12-256-8(75643)
एवमात्मा न जानीते क्व गभिष्ये कुतस्त्वहम्।
अन्यो ह्यत्रान्तरात्माऽस्ति यः सर्वमनुपश्यति॥ 12-256-9(75644)
ज्ञानदीपेन दीप्तेन पश्यत्यात्मानमात्मना।
दृष्ट्वा त्वमात्मनाऽऽत्मानं निरात्मा भव सर्ववित्॥ 12-256-10(75645)
विमुक्तः सर्वपापेभ्यो विमुक्तत्वगिवोरगः।
परां बुद्धिमवाप्येह विपाप्मा विगतज्वरः॥ 12-256-11(75646)
सर्वतः प्रवहां घोरां नदीं लोकप्रवाहिनीम्।
पञ्चेन्द्रियग्राहवतीं मनःसंकल्परोधसम्॥ 12-256-12(75647)
लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम्।
सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम्॥ 12-256-13(75648)
अव्यक्तप्रभवां शीघ्रां दुस्तरामकृतात्मभिः।
प्रतरस्व नदीं बुद्ध्या कामग्राहसमाकुलाम्॥ 12-256-14(75649)
------------
तालद्स्तराम्।
आत्मकमा---------जिह्वावर्तां दुरासदाम्॥ 12-256-15(75650)
यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः।
तां तीर्णः सर्वतोमुक्तो विधूतात्माऽऽत्मविच्छुचिः॥ 12-256-16(75651)
उत्तमां बुद्धिमास्थाय ब्रह्मभूयं भविष्यसि।
संतीर्णः सर्वसंक्लेशान्प्रसन्नात्मा विकल्मषः॥ 12-256-17(75652)
भूमिष्ठानीव भूतानि पर्वतस्थो निशामय।
अक्रुध्यन्नप्रहृष्यंश्च अनृशंसमतिस्तथा॥ 12-256-18(75653)
ततो द्रक्ष्यसि सर्वेषां भूतानां प्रभवाप्ययौ।
एनं वै सर्वभूतेभ्यो विशिष्टं मेनिरे बुधाः।
धर्मं धर्मभृतां श्रेष्ठा मुनयस्तत्त्वदर्शिनः॥ 12-256-19(75654)
आत्मनो व्यापिनो ज्ञानमिदं पुत्रानुशासनम्।
प्रयताय प्रवक्तव्यं हितायानुगताय च॥ 12-256-20(75655)
आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत्।
अब्रुवं यदहं तात आत्मसाक्षिकमञ्जसा॥ 12-256-21(75656)
नैव स्त्री न पुमानेतन्नैव वेद नपुंसकम्।
अदुःखमसुखं ब्रह्म भूतभव्यभवात्मकम्॥ 12-256-22(75657)
नैतज्ज्ञात्वा पुमान्स्त्री वा पुनर्भवमवाप्नुते।
स्वभावप्रतिपत्त्यर्थमेतद्धर्मं विधीयते॥ 12-256-23(75658)
यथा मतानि सर्वाणि तथैतानि यथातथा।
कथितानि मया पुत्र भवन्ति न भवन्ति च॥ 12-256-24(75659)
तत्प्रीतियुक्तेन गुणान्वितेन
पुत्रेण सत्पुत्र दमान्वितेन।
पृष्टो हि संप्रीतिमना यथार्थं
ब्रूयात्सुतस्येह यदुक्तमेतत्॥ ॥ 12-256-25(75660)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षट्पञ्चाशदधिकद्विशततमोऽध्यायः॥ 256॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-256-3 निष्यतिष्णूनि निष्यतनशीलानि संनियम्यैकाग्र्यं संबन्धः॥ 12-256-15 --त्मजन्मोद्भवामिति ट. ध. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|